अरण्यचन्द्रिकान्यायः

विकिसूक्तिः तः

अरण्ये कियती अपि शुभ्रा ज्योत्स्ना प्रसृता चेदपि तस्याः आस्वादनं न भवति इति कारणेन तत्सर्वं व्यर्थं भवति । भोक्तुः अभावे भोग्यस्य वस्तुनः किं प्रयोजनम् ? इति अस्य न्यायस्य अभिप्रायः । सौन्दर्यविषये कालिदासेन कथितं यत् सौन्दर्यस्य फलं प्रियजने एव अनुषक्तं भवति इति - निनिन्दरुपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता । (कुमारसंभवे ५-१) (सा-९५९) तथा - स्त्रीणां प्रियालोकफलो हि वेषः (सुभाषितम्) ।

"https://sa.wikiquote.org/w/index.php?title=अरण्यचन्द्रिकान्यायः&oldid=8310" इत्यस्माद् प्रतिप्राप्तम्