अरुणान्यायः

विकिसूक्तिः तः

अयं मीमांसाशास्त्रस्य न्यायः । अर्थैकत्वे द्रव्यगुणयोः ऐककर्म्यात् नियमः स्यात् इति मीमांसासूत्रे अयं न्यायः सम्प्राप्तः । अरुणया पिङ्गाक्ष्या एकहायन्या सोमं क्रीणाति (तैत्तिरीयसंहिता ६-१-१-६-७) इत्यस्य वाक्यस्य महती चर्चा शबरस्वामिना भाष्ये कृता । यदा बहूनां गुणानां संबन्धः एकेन द्रव्येण सह दर्शितः भवति एक एव विधिः (क्रिया वा) उदिदष्ट भवति तदा सर्वे गुणाः एकमेव द्रव्यं पदार्थ वा दर्शयन्ति इति मीमांसाशास्त्रस्य नियमः । अयं न्यायः तं नियमम् आधारीकृत्य प्रवर्तते । द्रष्टव्यम्- जैमिनिसूत्रं ३-२-१२, याज्ञवल्क्यटीका ३-२०५ ।

"https://sa.wikiquote.org/w/index.php?title=अरुणान्यायः&oldid=8312" इत्यस्माद् प्रतिप्राप्तम्