अर्धचन्द्रवदाकारं...

विकिसूक्तिः तः

अर्धचन्द्रवदाकारं स्त्रीनामाथ च त्र्यक्षरम् ।
नकारादि रिकारान्तं यो जानाति स पण्डितः ॥

अर्धचन्द्राकारयुक्तः स्त्रीलिङ्गशब्दः अयम् अक्षरत्रयेण युक्तः । आदिमवर्णः नकारः, अन्तिमश्च भवति रिकारः । इदं यः जानीयात् सः पण्डितः । ’नेवरी’ इत्येतत् किन्ञ्चन खाद्यवस्तु । महाराष्ट्रे अधिकतया प्रसिद्धम् । ’कर्जीकायि’ ’सुरळीपुरि’ इत्यादिभिः नामभिः अपि प्रसिद्धम् ।

उत्तरम्

नेवरी
"https://sa.wikiquote.org/w/index.php?title=अर्धचन्द्रवदाकारं...&oldid=464" इत्यस्माद् प्रतिप्राप्तम्