अहमिन्द्रो न पराजिग्ये ॥
दिखावट
अहमिन्द्रो न पराजिग्ये ॥ (ऋग्वेदः १०-४८-५)
[सम्पाद्यताम्]अहम् इन्द्रः अस्मि, पराजितः न भवामि ।
- आशावादः जीवनाय अत्यवश्यम् । पतने, अपजये च आशावादः एव अस्मान् अग्रे नेष्यति । जीवनं नाम आरोहावरोहाः ! जयापजयाः ! लाभनष्टाः ! सामान्यतः आदिमः यदा प्राप्यते आनन्दः एव । जीवने विद्यमानं समग्रम् अनुभोक्तं तीव्रा इच्छा उत्पद्यते । (कदाचित् अत्यधिकः लाभः, महान् जयः प्राप्ते सति सोढुम् अशक्नुवन्तः हृदयाघातं प्राप्नुवन्ति !) पतनम् अपजयः नष्टञ्च यदा अनुभूयते तदा 'जीवनमिदं पर्याप्तम्' इति भासते । आग्रहपूर्वकं जीवनं यदि समापयेम तदा अग्रे लप्स्यमानाः लाभाः अपि विनष्टाः इव एव ! जीवति चेदेव खलु तस्य प्राप्तिः शक्या !? अपरञ्च रहस्यं नाम किमपि सुखं दुःखं वा न भवति शाश्वतम्, सर्वमपि तात्कालिकम् !! अनया पृष्ठभूमिकया एव 'अपजयः जयस्य सोपानम्' इत्येषा उक्तिः रूढौ आगता । अपजयः वस्तुतः न अपजयः, जयं प्रति निहितं पदम् । जयः न प्राप्तः इत्यतः केचन बुद्धिहीनाः तत् पराजयमिति निर्दिष्टवन्तः । इन्द्रियैः युक्तः एव इन्द्रः । मयि अमूल्या इन्द्रियशक्तिः विद्यते । ताम् उपयुज्य अग्रे सरामि । यदि नाद्य श्वः विजयः मम एव !!