अहो किमपि चित्राणि...

विकिसूक्तिः तः

सुभाषितम्

अहो किमपि चित्राणि चरित्राणि महात्मनाम्।
लक्ष्मीं तृणाय मन्यन्ते तद्भारेण नमन्त्यपि ॥

aho kimapi citrāṇi caritrāṇi mahātmanām।
lakṣmīṃ tṛṇāya manyante tadbhāreṇa namantyapi ॥

पदच्छेदः

अहो!, किमपि, चित्राणि, चरित्राणि, महात्मनाम्, लक्ष्मीं, तृणाय, मन्यन्ते, तद्भारेण, नमन्ति अपि ।


तात्पर्यम्

अहो! महापुरुषाणां चरित्रं विचित्रं भवति । यतो हि ते लक्ष्मीं तृणसमानां पश्यन्ति ।

"https://sa.wikiquote.org/w/index.php?title=अहो_किमपि_चित्राणि...&oldid=16104" इत्यस्माद् प्रतिप्राप्तम्