आयुष्मान्जीव मा मृथाः ॥

विकिसूक्तिः तः
Jump to navigation Jump to search

आयुष्मान्जीव मा मृथाः ॥ (अथर्ववेदः १९-२७-८)[सम्पाद्यताम्]

आयुष्मान् सन् जीव्यताम्, न म्रियताम् ।

अनेन शरीरेण सह दीर्घकालं यावत् जीवनीयम् । मरणम् अतिक्रान्तुम् अशक्यम्, किन्तु अकालमृत्युः न स्यात् । मानवजन्मनः प्राप्तिः एव कश्चन अमूल्यः अवसरः । आत्मनः उन्नत्यै आवश्यकं ज्ञानम् अनुभवञ्च प्राप्तुं, सत्कर्मणां निर्वर्तनाय च प्राप्तः कश्चन अपूर्वः अवसरः । आयुः यावदधिकं स्यात् तावदधिकप्रमाणेन सत्कर्माणि कर्तुं शक्यानि, तेन आत्मोन्नतिः साधयितुं शक्या । आयुः पूर्वनिश्चितमित्येतत् न साधु । शरीरस्य सामर्थ्यं निश्चितम् । जागरूकतया यदि उपयुञ्ज्महे तर्हि दीर्घकालम् उपयोगाय भवति । दुरभ्यासवशात् वा, अनियतायाः जीवनशैल्याः कारणात् वा शरीरसामर्थ्यस्य ह्रासे सति मरणप्राप्तिः, अजागरूकतया अपघातकारणात् मरणप्राप्तिः, मानसिकरोगेण उद्वेगेन वा आत्महत्याकरणं वा अकालमृत्युः इति कथ्यते ।