सामग्री पर जाएँ

उत्क्रामातः पुरुष माव पत्थाः ॥

विकिसूक्तिः तः

उत्क्रामातः पुरुष माव पत्थाः ॥ (अथर्ववेदः ८-१-४)

[सम्पाद्यताम्]

हे जीवात्मन् ! उत्थाय अग्रे सर्यताम्, अधः न पत्यताम् ।

रूढौ पुरुषः नाम पुरुषमात्रम् । किन्तु वैदिकपृष्ठभूमिकायां पुरं (शरीरं) यः आश्रितवान् सः जीवात्मा एव 'पुरुषः' । अयं न पुमान् न वा महिला । स्वेन आश्रितस्य शरीरस्य रचनानुगुणं सः पुमान् महिला इति व्यवहृतः भवति । अयम् आत्मा स्वस्य वास्तवस्थितिः का इति ज्ञात्वा उन्नतिं साधयेत्, पतनं न प्राप्नुयात् । आत्मबलस्य वर्धनमेव उन्नतिः, आत्मबलस्य नाशः एव अवनतिः । असत्यकथने भयं विद्यते, वास्तवस्य सम्मुखीकरणे अधैर्यं विद्यते । सत्यकथने धैर्यं विद्यते, कस्यापि परिणामस्य सम्मुखीकरणविश्वासः विद्यते । अनृतं प्रति पतनम् अवनतिः चेत्, सत्यस्य मार्गे गमनम् उन्नतिः भवति । विरोधः, अवरोधः वा यदा असहनीयः भवति तदा कोपः आयाति । यदा विरोधः सह्येत तदा तस्य निवारणोपायः अन्वेष्टुं शक्यः । कोपः आत्मबलं नाशयति । तितिक्षा उन्नतिं सूचयति ।