उत्सवे व्यसने चैव...

विकिसूक्तिः तः

सुभाषितम्

उत्सवे व्यसने चैव दुर्भिक्षे शत्रुनिग्रहे ।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥




तात्पर्यम्

अस्मिन् सुभाषिते अस्माकं वस्तुतः बान्धवः कः इति निरूपितम् अस्ति। उत्सवे व्यसने दुर्भिक्षे शत्रुनिग्रहे राजद्वारे श्मशाने चेति सर्वेषु अपि स्थानेषु अस्म्माभिः समं यः तिष्ठति सः बान्धवः भवति। अर्थात् अस्माकं सुखे यथा सहभागिनः तद्वत् कष्टे दुःखे अपि सहभागिनः भवन्ति।

"https://sa.wikiquote.org/w/index.php?title=उत्सवे_व्यसने_चैव...&oldid=15477" इत्यस्माद् प्रतिप्राप्तम्