उपसर्प मातरं भूमिमेताम् ॥

विकिसूक्तिः तः
Jump to navigation Jump to search

उपसर्प मातरं भूमिमेताम् ॥ (ऋग्वेदः १०-१८-१०)[सम्पाद्यताम्]

अस्याः मातृभूमेः समीपं गच्छ ।

अस्माकं सर्वाणि चिन्तनानि, योजनाः च मातृभूमिपराः स्युः । मातृभूमिः नाम मानवैः स्वार्थ-अधिकार-अज्ञानैः सज्जीकृता सीमारेखादिभिः अभिज्ञायमाना देशरूपा राष्ट्रस्वरूपा भूमिः न ! अस्माकं देशे वायुमालिन्यं क्रियेत चेत् किं तस्य परिणामः जगति अन्यत्र न भवेत् ?! अस्माकं समुद्रं मलिनं भवति चेत् किम् अत्रत्याः जलचराः एव मरणं प्राप्नुयुः ?! भूमेः, परिसरस्य च अत्याचारः येनकेनापि यत्रकुत्रापि क्रियतां नाम, तस्य परिणामस्तु समस्तस्य जगतः उपरि भवति इत्येतत् स्पष्टमेव अवगम्यमानं सत्यम् । अतः, समग्रं भूगोलमेव सर्वेषां मातृभूमिः । वेदेषु 'राष्ट्र'शब्दस्य प्रयोगः अस्मिन्नेव अर्थे कृतः विद्यते । अस्माकं जीवनस्य सम्पदः एव इयं भूमिः, परिसरः, नदी, वनं, गिरिः, प्राणी, पक्षी, कृमिः, कीटः, खनिजानि च । एतेषां रक्षणं मानवानाम् आद्यं कर्तव्यम् । एतदनन्तरं यदि अपेक्षितं परिसराविरुद्धा उद्यमक्रान्तिः, बाह्याकाशान्वेषणम् इत्यादीनि कर्तुं शक्यन्ते । अस्माभिः आश्रयणीयां शाखामेव छित्त्वा स्वविनाशः आनीतः चेत् अन्यसम्पद्भिः किं प्रयोजनम् ?