उपहूता इह गाव उपहूता अजावयः ॥

विकिसूक्तिः तः

उपहूता इह गाव उपहूता अजावयः ॥ (यजुर्वेदः ३-३०-२)[सम्पाद्यताम्]

गव्यूतिदूरे धेनवः सन्ति, गव्यूतिदूरे अजमेषाः सन्ति ।

जगत् कृष्याधारितमस्ति । मूलभूतावश्यकः आहारः कृषेः फलम् । धेन्वादयः पशवः कृषेः अविभाज्यानि अङ्गानि, कृषेः अंशभागिनः । कृषेः आदौ तेषां गोभराः अपेक्षिताः, ततः तेषां शारीरकपरिश्रमः । तदनन्तरं तेषाम् अपत्येभ्यः दत्त्वा अवशिष्टं दुग्धम् । एतेषां पालनं मांसाय कदापि न । (कारणम् - मानवाः स्वाभाविकतया सस्याहारिणः । मानवीये जीवने हिंसायाः अवसरः न विद्यते ।) भूमेः फलवत्ततावर्धनाय आवश्यकाः गोभरादयः गोमूत्र-गोमयरूपेण पशुपालनेन सुलभतया निश्शुल्कम् उपलभ्यन्ते । कृषेः व्ययः न्यूनः भविष्यति । स्वावलम्बनं साध्यं भवति, परिसरस्य शुद्धता रक्षिता भवति । अनेकेषु कृषिकार्येषु एतेषां प्राणिनां शारीरकश्रमस्य सहयोगः अपि प्राप्यते । तेषां रक्षणं पालनञ्च कृषकस्य कर्तव्यं भवति । एते सर्वे लाभाः परस्परं प्राप्तुं पशुमनुष्ययोः समीपवासः अपेक्षितः ।