कर्णस्त्वचं शिबिर्मांसं...

विकिसूक्तिः तः

सुभाषितम्

कर्णस्त्वचं शिबिर्मांसं जीवं जीमूतवाहनः ।
ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम् ॥




तात्पर्यम्

कर्णः स्वीयं चर्म एव कर्तयित्वा अददात् । शिबिचक्रवर्ती स्वशरीरस्य मांसम् अददात् । जीमूतवाहनः स्वीयं जीवमेव अयच्छत् । दधीचिमहर्षिः स्व अस्थीनि एव वज्रायुधाय अददात् । महापुरुषाणाम् अदेयं न किञ्चित् विद्यते ।