कर्मण्येवाधिकारस्ते...

विकिसूक्तिः तः

सुभाषितम्

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूः मा ते सङ्गोस्त्वकर्मणि ॥

भगवद्गीता २-४७

karmaṇyevādhikāraste mā phaleṣu kadācana ।
mā karmaphalaheturbhūḥ mā te saṅgostvakarmaṇi ॥

पदच्छेदः

कर्मणि, एव, अधिकारः, ते, मा, फलेषु, कदाचन, मा, कर्मफलहेतुः, भूः, मा, ते, सङ्गः, अस्तु, अकर्मणि ॥


तात्पर्यम्

कर्मणः विषये एव तव अधिकारः, न तु फलस्य विषये । अतः कर्मणः फलस्य विषये आसक्तः मा भव । (कर्मणः फलं न अपेक्षितम् इत्यतः कर्म किमर्थम् इति) कर्मणः त्यागं मा कुरु ।


आङ्ग्लार्थः

You only have a right to action (karma) and not to the fruits of your karma. Do not become a person who constantly meditates upon (gets attached to) the results of one’s karma. Do not get attached to inactivity (no karma).