कालः पचति भूतानि...

विकिसूक्तिः तः

सुभाषितम्

कालः पचति भूतानि कालः संहरते प्रजाः ।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥

चाणक्यनीतिसारः ६-७

kālaḥ pacati bhūtāni kālaḥ saṃharate prajāḥ ।
kālaḥ supteṣu jāgarti kālo hi duratikramaḥ ॥

पदच्छेदः

कालः, पचति, भूतानि, कालः, संहरते, प्रजाः, कालः, सुप्तेषु, जागर्ति, कालः, हि, दुरतिक्रमः ।


तात्पर्यम्

कालः जगति सर्वमपि जीर्णीकरोति । सर्वेषां जीविनां संहारं कालः एव अन्ते करोति । सर्वे जनाः यदा निद्रान्ति तदा अपि कालः जागृतः सन् सर्वान् अवलोकमानः भवति । कालं कोपि जेतुं नार्हति ।


आङ्ग्लार्थः

Time perfects all living beings as well as kills them; it alone is awake when all others are asleep. Time is insurmountable, rest upon truth.

"https://sa.wikiquote.org/w/index.php?title=कालः_पचति_भूतानि...&oldid=17759" इत्यस्माद् प्रतिप्राप्तम्