किं नु मे स्यादिदं कृत्वा...
नेविगेशन पर जाएँ
खोज पर जाएँ
सुभाषितम्
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः ।
इति कर्माणि सञ्चिन्त्य कुर्याद्वा पुरुषो न वा ॥
तात्पर्यम्
कार्यकरणतः पूर्वम् इदं क्रियेत चेत् किं भवेत् ? न क्रियेत चेत् किं भवेत् इति सम्यक् विचिन्त्य एव कार्यं करणीयम् अथवा त्यक्तव्यम् ।