कुग्रामवासः कुलहीनसेवा...

विकिसूक्तिः तः

सुभाषितम्

कुग्रामवासः कुलहीनसेवा कुभोजनं क्रोधमुखी च भार्या ।
पुत्रश्च मूर्खो विधवा च कन्या विनाग्निना षट् प्रदहन्ति कायम् ॥




तात्पर्यम्

यः कुग्रामे निवसति, शीलहीनस्य सेवां करोति, दोषयुक्तं भोजनं करोति, पत्नी सर्वदा क्रोधयुक्ता भवति, मूर्खसमानः पुत्रः वर्तते । पुत्री विधवा भवति । तस्य देहः अग्निं विना दहति ।