कृतं पुरुषशब्देन...

विकिसूक्तिः तः

सुभाषितम्

कृतं पुरुषशब्देन जातिमात्रावलम्बिना ।
योऽङ्गीकृतगुणैः श्लाघ्यः स विस्मयमुदाहृतः ॥

kr̥taṁ puruṣaśabdēna jātimātrāvalambinā ।
yō:'ṅgīkr̥taguṇaiḥ ślāghyaḥ sa vismayamudāhr̥taḥ ॥

पदच्छेदः

कृतं, पुरुषशब्देन, जातिमात्रावलम्बिना, यः, अङ्गीकृतगुणैः, श्लाघ्यः, सः, विस्मयम्, उदाहृतः ।


तात्पर्यम्

यद्यपि पुरुषशब्दः केवलं जातिवाचकः । सर्वेषु प्राणिषु समान्यतः प्रयुज्यते । किन्तु यः सर्वैः गुणानुरागिभिः श्लाघ्यः स एव पुरुषशब्देन उदाहृतः ।

"https://sa.wikiquote.org/w/index.php?title=कृतं_पुरुषशब्देन...&oldid=16737" इत्यस्माद् प्रतिप्राप्तम्