को वीरस्य मनस्विनः...

विकिसूक्तिः तः

सुभाषितम्

को वीरस्य मनस्विनः स्वविषयः को वा विदेशस्तथा
यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् ।
यद्दंष्ट्रानखलाङ्गलप्रहरणात्सिंहो वनं ग्राहते
तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्यात्मनः ॥

ko vīrasya manasvinaḥ svaviṣayaḥ ko vā videśastathā
yaṃ deśaṃ śrayate tameva kurute bāhupratāpārjitam ।
yaddaṣṭrānakhalāṅgalapraharaṇātsiṃho vanaṃ grāhate
tasminneva hatadvipendrarudhiraistṛṣṇāṃ chinatyātmanaḥ

पदच्छेदः

कः, वीरस्य, मनस्विनः, स्वविषयाः, कः, वा, विदेशः, तथा, यं, देशं, श्रयते, तम्, एव, कुरुते, बाहुप्रतापार्जितम्, यत्, दंष्ट्रानखलाङ्गलप्रहरणात्, सिंहः, वनं, ग्राहते, तस्मिन्, एव, हतद्विपेन्द्ररुधिरैः, तृष्णां, छिनत्ति, आत्मनः ।


तात्पर्यम्

बुद्धिमतः वीरस्य ‘इदं मम, इदम् अन्यस्य’ इत्येवं भावः न भवति । अयं मम देशः, अयं विदेशः इति भावोऽपि न भवति । यं देशं गच्छति तमेव देशं स्वपराक्रमेण स्वायत्तं करोति । यथा सिंहः स्वपराक्रमेण समग्रं वनं स्वायत्तं करोति, तथैव स्वपराक्रमेण गजं हत्वा तस्य रुधिरेण स्वपिपासां निवारयति तथैव वीराः पराक्रमं दर्शयन्ति ।

"https://sa.wikiquote.org/w/index.php?title=को_वीरस्य_मनस्विनः...&oldid=16787" इत्यस्माद् प्रतिप्राप्तम्