क्वचिदर्थः क्वचिद्धर्मः...
नेविगेशन पर जाएँ
खोज पर जाएँ
सुभाषितम्
क्वचिदर्थः क्वचिद्धर्मः क्वचिन्मैत्री क्वचित् यशः ।
कर्माभ्यासः क्वचिच्चेति चिकित्सा नास्ति निष्फला ।
तात्पर्यम्
चिकित्सया कदाचित् धनं लभ्येत । पुनः कदाचित् धर्मः सम्पाद्येत । अन्यदा कदाचित् मित्रलाभः भवेत् । पुनः कदाचित् यशः प्राप्येत । कदाचित् चिकित्सा कर्माभ्यासाय वा भवति । अतः चिकित्सा कदापि निष्फला न ।