क्षुत्क्षामोऽपि जराकृशोऽपि

विकिसूक्तिः तः

क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशाम्
आपन्नोऽपि विपन्न-दीधितिरपि प्राणेषु नश्यत्स्वपि ।
मत्तेभेन्द्र-विभिन्न-कुम्भ-पिशित-ग्रासैक-बद्ध-स्पृहः
किं जीर्णं तृणमत्ति मानमहताम् अग्रेसरः केसरी ॥

भर्तृहरिः नीतिशतके।