गच्छन् पिपीलको याति...

विकिसूक्तिः तः

सुभाषितम्

गच्छन् पिपीलको याति योजनानां शतान्यपि ।
अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ॥


पदच्छेदः

गच्छन् पिपीलको याति योजनानां शतानि अपि अगच्छन् वैनतेयः अपि पदम् एकं न गच्छति।


तात्पर्यम्

पिपीलकस्य चलनं भवति बहु मन्दम् । गरुडस्तु महता वेगेन सञ्चरति । तथापि चलन् पिपीलकः शताधिकानि योजनानि अग्रे गच्छेत् । गरुडः निश्चलः तिष्ठति चेत् पदमात्रमपि अग्रे न गच्छेत् ।


आङ्ग्लार्थः

An ant one who moves constantly, gradually reaches hundred yojanas(A far distance). But an eagle, who is not willing to move, will not be able to take a single step forward.

"https://sa.wikiquote.org/w/index.php?title=गच्छन्_पिपीलको_याति...&oldid=16813" इत्यस्माद् प्रतिप्राप्तम्