गद्यकाव्यसूक्तयः (गार्हस्थ्यम्)

विकिसूक्तिः तः

<poem> १ . केवलं कृपाकृतिविशेषः सुदूरेण तनयस्नेहादतिरिच्यते दुहितृस्नेहः । - हर्षचरितम् उच्छवासः ४

२ . को हि नाम सहेत सचेतनो विरहमपत्यानाम् । - हर्षचरितम्-४

३ . गृहस्थः सर्वेषां प्राणिनां पिता भवति । - द्वासुपर्णा उत्तरभागः

४ . गार्हस्थ्यं हि निखिलाश्रमजीवनभूतम् । - शृङ्गारमञ्जरी पृ० ८४

५. गृहिणः प्रियहिथाय दारगुणाः । - दशकुमारचरितम् उत्तरपीठिका उ०६

६. प्रायेणासत्स्वप्यन्येषु वरगुणेष्वभिजनमेवानुरुध्यन्ते धीमन्तः । - हर्षचरितम् उ० ४

७. यौवनारम्भ एव च कन्यकानामिन्धनी भवन्ति पितरः सन्तापानलस्य । - हर्षचरितम् उ० ४

८. संवर्धनमात्रोपयोगिन्यो धात्रीनिर्विशेषा भवन्ति खलु मातरः कन्यकानाम् । - हर्षचरितम् उ० ४