गद्यकाव्यसूक्तयः (दुःखम्)
<poem>
१ . अतिक्रान्तान्यपि हि संकीर्त्यमानानि प्रियजनविश्वासवचनान्यनुभवसमां
- वेदनामुपजनयान्ति । - कादम्बरी पूर्वभागः
२ . अतिसुकुमारं च जनं सन्तापपरमाणवः मालतीकुसुममिव म्लानिमानयन्ति । - हर्षचरितम् उ० १
३ . अनवरतनयनजलसिच्यमानश्च तरुरिव विपल्लवोऽपि सहस्रधा प्ररोहति । - हर्षचरितम् उ० १
४. अहो ! दुर्निवारता व्यसनोपनिपातानाम्, यदीदृशीमप्याकृतिमनभिभवनीमात्मीयां
- करोति । - कादम्बरी पूर्वभागः
५. दुःखदग्धानां च भूतिरमङ्गला चाप्रशस्ता च निरुपयोगा च भवति । - हर्षचरितम् उ० ५
६. प्रायेण च निसर्गत एवानायतस्वभाव-भङ्गुराणि सुखानि, आगतस्वभावानि
- च दुःखानि । - कदम्बरी पूर्वभागः
७. यं च किल शोकः समभिभवति तं कापुरुषमाचक्षते शास्त्रविदः । - हर्षचरितम् उ० ६
८. सङ्क्रामति हि स्वच्छतरे दर्पणे बिम्बमिव प्रतिबिम्बरूपेण सहृदयानां
- न्यूनातिरिक्तेन स्वरूपेण परात्मसमवेतमपि दुःखम् । - मन्दारमञ्जरी, पूर्वभागः
९. सर्वथा न कञ्चन स्पृशन्ति शरीरधर्माणमुपतापाः । - कादम्बरी पूर्वभागः
१०. स्वार्थ एव प्राणपरित्यागोऽयमसह्यशोकवॆदनाप्रतीकारत्वादत्मनः । कादम्बरी पूर्वभागः