गद्यकाव्यसूक्तयः (प्रेम)

विकिसूक्तिः तः

<poem> १ . कः किल न रोदित्यभीष्टविरहेण घट्यमानहृदयशल्यः

प्रेमपरिलङ्घितो जन्तुः । - उदयसुन्दरीकथा उच्छ्वासः

२ . कालो हि गुणाश्च दुर्निवारतामारोपयन्ति मदनस्य सर्वथा । - कादम्बरी पूर्वभागः

३ . कथमप्येकस्मिन् जन्मनि समागमः,

जन्मान्तरसहस्राणि च विरहः प्राणिनाम् । - कादम्बरी पूर्वभागः

४ . कः सचेतनः स्त्रियमभिकामयमानां नाभिनन्दति । - दशकुमारचरितम् उ०पी०उ०३

५. क्लेशभीरुरकृतज्ञः लोकः निष्फलेनाश्रुपातमात्रेण स्नेहमुपदर्शयन् रोदिति । - कादम्बरी पूर्वभागः

६. जीवितफलं हि प्रियतममुखावलोकनम् । - कादन्बरी उत्तरभागः

७. दारयति दारुणः क्रकचपात इव हृदयं संस्तुतजनविरहः । - हर्षचरितम् उ०२

८. दुर्निवारा हि नैसर्गिकी प्रीतिः । - लावण्यमयी परि ०३

९. धीरस्यापि धार्ष्ट्यमारोपयति हृदयम् लङघितलघिमातिवल्लभत्वम् । - हर्षचरितम् उ०२

१०. प्रणयदानदुर्ललिता दुर्लभमपि मनोरथमतिप्रीतिरभिलषति । - हर्षचरितम् उ०२

११. प्रणयवञ्चितः पुरुषः स्त्री वा न जीवितुं शक्नोति । - इक्षुगन्धा कथा-४

१२. प्रेम प्रेम्णोत्तीर्यते । - इक्षुगन्धा कथा-२

१३. प्रेमैव हृदयानि बध्नाति । - इक्षुगन्धा कथा-५

१४. प्रेम्णि का प्रमाणमीमांसा ? - रङ्गडा-५

१५. बलवती खलु वल्लभजनसङ्गमाशा । - कादम्बरी उत्तरभागः

१६. भवति हृदयहारी क्वापि कस्यापि कश्चिन्न खलु गुणविशेषः प्रेमबन्धप्रयोगे । - नलचम्पू ७/४७

१७ . लोके हि लोहेभ्यः कठिनतराः खलु स्नेहमया बन्धनपाशाः

यदाकृष्टिस्त्रिर्यञ्चोऽपि एवमाचरन्ति । - हर्षचरितम्, उ०५

१८. विनानुरागं हि प्रणयिनः प्रमदाया जिवनं व्यर्थमेव खलु । - कथामुक्तावली-कथा-७

१९. विरहानलसन्तप्तहृदयस्पर्शॆण नूनमुष्णीकृतः स्वल्पीभवति

मलयानिलः । - दशकुमारचरितम्, पूर्वपीठिका,उ० ५

२०. सत्यमेव गरीयः खलु जीवितालम्बनमिदं विनोदश्च वियोगिनीनां

यदुत सङ्कल्पमयः प्रियः । - कादम्बरी उत्तरभागः

२१. स्वय्मारोपितेषु तरुषु तावदुत्पद्यते स्नेहः किं पुनरङ्गसम्भवेष्वपत्येषु । - कादम्बरी उत्तरभागः

२२. सर्वथा लूतातन्तुच्छटाच्छिदुरास्तुच्छाः प्रीतयः प्राणिनाम् । - हर्षचरितम् उ०६

२३. कुलटायाः कुमित्रस्य कुप्रभोः कितवस्य च ।

विद्युल्लेखासमा प्रीतिः सद्योजाता विलीयते ॥ - पुरुषपरीक्षा ४/४०