गद्यकाव्यसूक्तयः (मूर्खता)

विकिसूक्तिः तः

<poem>

१ . अपण्डिताः पुनरर्जयन्त एव ध्वंसन्ते ।

नार्जीतस्य वस्तुनो लवणमप्यास्वादयितुमीहन्ते । - दशकुमारचरितम्, उत्तरपीठिका उ०८

२ . अतत्त्वदर्शिन्यो हि भवन्त्यविदग्धानां धियः । - हर्षचरितम्, उच्छ्वासः-७

३ . छत्रच्छायान्तरितरवयो विस्मरन्त्यन्यं तेजस्विनं जडधियः । - हर्षचरितम्, उच्छ्वासः-६

४. सलीलानीव गतानुगतिकानि लोलानि खलु भवन्त्यविवेकिनां मनांसि । - हर्षचरितम्, उच्छ्वासः-२