गद्यकाव्यसूक्तयः (मोक्षः)

विकिसूक्तिः तः

<poem> १ . अखिलमनोज्वरप्रशमनकारणं हि भगवती प्रव्रज्या । - हर्षचरितम्, उच्छ्वासः-८

२ . अतिदृतवाहिनी चानित्यता नदी । - हर्षचरितम्, उच्छ्वासः-८

३ . जीवहृदयस्य पुनः साऽनुच्छेत्तव्या (माया) तत्त्वधिया । - मन्दारमञ्जरी, पूर्वभागः

४ . ब्रह्मनिष्ठानां परमानन्दोऽनुपमेयोऽसीमश्च वर्तते । - द्वासुपर्णा, पूर्वभागः

५. सर्वसत्त्वानुकम्पिनी प्रायः प्रव्रज्या । - हर्षचरितम्, उच्छवासः-८

६. सर्वभोगैश्वर्योपभोगानन्तरमेव प्रशमः श्रेयान् । - कौमुदीकथाकल्लोलिनी कल्लोलः ४