गद्यकाव्यसूक्तयः (सज्जनचरितम्)

विकिसूक्तिः तः

<poem>

१ . अचिन्त्यो हि महात्मनां प्रभावः । - कादम्बरी पूर्वभागः

२ . अप्रतिपाद्या हि परस्वता सज्जनविभवानाम् । - कादम्बरी पूर्वभागः

३ . अयस्कान्तमणय इव लोहानि नीरसनिष्ठुराणि क्षुल्लकानामप्याकर्षन्ति

मनांसि महतां गुणाः । - हर्षचरितम्-उच्छ्वासः ३

४. अक्षीणः खलु दाक्षिण्यकोषो महताम् । - हर्षचरितम्-उच्छ्वासः-१

५. अनपेक्षितगुणदोषः परोपकारः सतां व्यसनम् । - हर्षचरितम्-उच्छ्वासः-२

६. अपत्यत्वे समानेऽपि जातायां दुहतरि दूयन्ते सन्तः । - हर्षचरितम्-उच्छ्वासः-४

७. अलोहः खलु संयमनपाशः सौजन्यमभिजातानाम् । - हर्षचरितम्-उच्छ्वासः-८

८. अर्थिजने च किमिव नातिसृजन्ति महान्तः । - हर्षचरितम्-उच्छ्वासः-८

९. अनुरक्तेष्वपि शरीरादिषु साधूनां स्वामिनः एव प्रणयिनः । - हर्षचरितम्-उच्छ्वासः-३

१०. अभ्यर्थनाया जलनिधय इव रक्षन्ति मर्यादामार्याः । - हर्षचरितम्-उच्छ्वासः८

११. अहो ! पावनः प्रभावः पुण्यात्मनाम् । - सिन्धुकस्न्य-परिच्छेदः-६

१२. अलसः खलु लोको यदेवं सुलभसौहार्दानि येन केनचिन्न क्रीणाति

महतां मनांसि । - हर्षचरितम्-उच्छ्वासः ३

१३. आत्मार्पणं हि महताममूलमन्त्रमयं वशीकरणम् । - हर्षचरितम्-उच्छ्वासः९

१४. औदार्यातिशयः कोऽपि महात्मनामितरजनदुर्लभो येनोपकरणीकुर्वन्ति

त्रिभुवनमपि । - हर्षचरितम्-उच्छ्वासः१

१५. कुलीनाः प्राणानगणयन्तो धर्मं रक्षन्ति । - शिवराजविजयम् ३/९

१६. जनयन्ति हि पश्चाद् वैलक्ष्यमभूमिपातिता व्यर्थाः प्रसादामृतदृष्टयो महताम् । - कादम्बरी पूर्वभागः

१७. तापमुत्सारयन्नूनमातपत्रस्य सप्रभः ।

तेनैष ध्रियते लोकैर्मस्तकोपरि सज्जनः ॥ - उदयसुन्दरीकथा-उ०१

१८. दुःखितमपि जनं रमयन्ति सज्जनसमागमाः । - कादम्बरी, पूर्वभागः

१९. दुर्लभो हि दाक्षिण्यपरवशो निर्निमित्तमित्रमकृत्रिमहृदयो विदग्धजनः । - कादम्बरी, पूर्वभागः

२०. धर्मपरायणानां हि समीपसञ्चारिण्यः कल्याणसम्पदो भवन्ति । - कादम्बरी, पूर्वभागः

२१. धैर्यधना हि साधवः । - कादम्बरी, कथा-मुखम्

२२. धीरा हि तरन्त्यापदम् । - कादम्बरी, पूरव्भागः

२३. न च सचेतना विसदृशमुपदिशन्ति । - वासवदत्ता पृ०९३

२४. निष्कारणा निराकणकापि च कलुषयति मनस्विनोऽपि

मानसमसदृशजनादापतन्ती । - हर्षचरितम्-उच्छ्वासः १

२५. निसर्गस्वैरिणी स्वरुच्यनुरोधिनी च भवति महतां मतिः । - हर्षचरितम्-उच्छ्वासः ३

२६. पुण्यानि हि नामग्रहणान्यपि महामुनीनां किं पुनर्दर्शनानि । - कादम्बरी, पूर्वभागः

२७. परं हि दैवतमृषयः । - कादम्बरी, पूर्वभागः

२८. प्रथमदर्शने चोपायनमिवोपनयति सज्जनः प्रणयम् । - हर्षचरितम्-उच्छ्वासः ३

२९. प्रायेणाकारणमित्राण्यतिकरुणार्द्राणि च सदा खलु भवन्ति सतां चेतांसि । - कादम्बरी, कथामुखम्

३०. प्रणयिजनप्रत्याख्यानपराङ्मुखि च दाक्षिण्यपरवति महत्ता सताम् । - कादम्बरी, पूर्वभागः

३१. प्रत्युपकारदुष्प्रवेशास्तु भवन्ति धीराणां हृदयावष्टम्भाः । - हर्षचरितम्-उच्छ्वासः ३

३२. प्रतिज्ञाविरुद्धाचरणं महतां कार्यं वा ? - शिवराजविजयम्-२/६

३३. भवति सुभगत्वमधिकं विस्तारितपरगुणस्य सुजनस्य । - वसवदत्त प्रस्तावना पृ०५

३४. मनस्तु साधुध्वनिभिः पदे पदे, हरन्ति सन्तो मणिनूपुरा इव । - कादम्बरी, कथामुखम्-श्लोकः ६

३५. महद्भिस्तु यथार्थदर्शिभिर्भवितव्यम् । - हर्षचरितम् उच्छ्वासः २

३६. महात्मनो जनानपहाय कस्य वा परस्य समुदेति परदुःखहेतुजिज्ञासा । - मरमञ्जरी-पूरवभागः

३७. महात्मनां जीवने आधिभौतिकसुखानां प्रमुखस्थानं न विद्यते । - द्वासुपर्णा-उत्तरभागः

३८. महात्मनां चोपरि निपतन्नणुरपि सृणिरिव करिणां क्लेशः कदर्थनाय अलम् । - हर्षचरितम् उच्छ्वासः १

३९. भोगं नेच्छन्ति स्वप्नेऽपि कुर्वते न करग्रहम् ।

महान्तः नाममात्रेण भवन्ति पतयो भुवः ॥ - हर्षचरितम् उच्छ्वासः १

४०. यत्तुं स्वभावेनानिष्टजनकं तत्रैव महतामादरोपनिबन्ध उचितः । - मन्दारमञ्जरी, पूर्वभागः

४१. विवेकः सह सम्पत्त्या विनयो विद्यया सह ।

प्रभुत्वं प्रश्रयोपेतं चिह्नमेतन्महात्मनाम् ॥ - नलचम्पू ३/१३

४२. सतां तु भुवि विस्तारवत्यः स्वभावेनोपकृतयः । - हर्षचरितम् उ०३

४३. साधवो मृगा इव विनोदबिन्दोः श्रवणवशगा न भवन्ति, शरत्समया इव

मित्रस्य हृदयं हरन्ति । - वासवदत्त पृ०९२

४४. साधवो हि कलिकालतमः पटलपिहितेऽस्मिन् जगति क्व नाम दृश्यते । - उदयसुन्दरीकथा- उ०१

४५. साधवो हि दिङ्मोहादुत्पथप्रवृत्ता अपि पुनर्गृहीतसत्पथा भवन्ति । - वासवदत्ता पृ०९२

४६. साधुजनश्च सिद्धक्षेत्रमार्तवचसाम् । - हर्षचरितम् ३/२

४७. साधूनामुपकर्तुं लक्ष्मीं दृष्टुं विहायसा गन्तुम् ।

न कुतूहलि कस्य मनश्चरितं महात्मनां श्रोतुम् । - हर्षचरितम् ३/२