चाणक्य

विकिसूक्तिः तः
Jump to navigation Jump to search

चाणक्यः मौर्यवंशप्रथमराज्ञः चंद्रगुप्तस्य मन्त्रीसहायकोच आसीत् | सो प्राचीनभारतस्य प्रसिद्धतम कूटनीतिज्ञोऽभवत् | तेन सहायतया हि चन्द्रगुप्तेन नन्दराज्ञम् अवस्थापितम् मौर्यवंशंस्थापितंच | चाणक्य अर्थशास्त्रिदं पुस्तकस्य लेखको आसीत् | राजनीत्यां तस्य नीतिः चाणक्यनीतीदं नाम्ना प्रसिध्दा अस्ति |

  • विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन ।

स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥

  • पण्डिते च गुणास्सर्वे मूर्खे दोषा हि केवलं ।

तस्मात् मूर्खसहस्रेभ्य: प्राज्ञ एको विशिष्यते ॥

  • परोक्षे कार्यहंतारं प्रत्यक्षे प्रियवादिनं ।

वर्जयेत्तादृशं मित्रं विषकुंभं पयोमुखम् ॥

  • रूपयौवनसंपन्ना विशालकुलसंभवाः ।

विद्याहीना न शोभन्ते निर्गन्धा इव किंशुका: ॥

  • ताराणां भूषणं चन्द्रो नारीणाम् भूषणं पतिः ।

प्रिथिव्या भूषणं भूषणं राजा विद्या सर्वस्य भूषणम् ॥

  • कोऽर्थः पुत्रेण जातेन यो न विद्वान् न भक्तिमान् ।

कानेन चक्षुषा किं वा चक्षु: पीडैव केवलम् ॥

  • लालयेत् पंच वर्षाणि दश वर्षानि ताडयेत् ।

प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥

  • एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।

वासितं स्यात् वनं सर्वं सुपुत्रेण कुलं तथा ॥

  • एकेन शुष्क वृक्षेण दह्यमानेन वह्निना ।

दह्यते हि वनं सर्वं कुपुत्रेण कुलं तथा ॥

  • निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।

न हि संहरते ज्योत्स्नां चन्द्रश्चण्डालवेश्मनि ॥

  • विद्या मित्रं प्रवासेषु माता मित्रं गृहेशु च ।

व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥

  • न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद्रिपुः ।

व्यवहारेणजायन्ते मित्राणि रिपवस्तथ। ॥

  • दुर्जन: प्रियवादी च नैतद्विश्वासकारणं ।

मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम् ॥

  • दुर्जनः परिहर्तव्यो विद्ययाऽलंकृतोऽपि सन् ।

मणिना भूषितस्सर्पः किमसौ न भयंकर ॥।

  • सर्प क्रूरः खल क्रूरः सर्पात् क्रूरतर खलः।

मन्त्रौषधिवशः सर्पः कलः केन निवार्यते ॥

  • धनानि जीवितश्चैव परार्थे प्राज्ञ उत्सृजेत्

सन्निम्मित्ते वरं त्यागो विनाशे नियते सति

  • आयुष क्षण एकोऽपि न लभ्य: स्वर्णकोटिभि: ।

स चेन्निरर्थकं नीतः का नु हानिस्ततोधिका? ॥

  • शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् ।

शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गुणाः ॥

  • धनिक: श्रोत्रियो राज नदी वैद्यश्च पंचमः ।

पंच यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥

  • मूर्खा: यत्र न पूज्यन्ते धान्यं यत्र सुसंचितं ।

दंपत्योः कलहो नास्ति तत्र श्री स्वयमागता॥

  • अस्ति पुत्रो वशे यस्य भृत्यो भार्या तथैव च।

अभावेऽप्यस्ति सन्तोषः स्वर्गस्थोऽसौ महीतले ॥

  • माता यस्य गृहे नास्ति भार्याचाप्रियवदिनी ।

अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम॥।

  • कोकिलानां स्वरो रूपं नरी रूपं पतिव्रतं ।

विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम् ॥

  • गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।

पतिरेको गुरुस्त्रीणां सर्वस्याभ्यागतो गुरुः

  • स जीवति गुणा यस्य धर्मो यस्य जीवति ।

गुणधर्मविहीनस्य जीवनं निष्प्रयोजनम् ॥

  • दुर्लभं प्राकृतं मित्रं कुर्लभ: क्षेमकृत् सुतः ।

दुर्लभा सदृशी भार्या दुर्लभः स्वजन प्रियः ॥

  • साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः।

तीर्थं फलति कालेन सद्यः साधुसमागमः

  • सत्संगः केसवे भक्तिः गंगांभसि निमज्जनं ।

असारे खलु संसारे थ्रीणि सारानि भावयेत् ॥

  • शान्तितुल्यं तपो नास्ति न संतोषात् परं सुखं ।

न तृष्णाया परो व्याधिर्न च धर्मो दया समः ॥

  • अन्नदाता भयत्राता विद्यादाता तथैव च। ।

जनिता चोपनेता च पंचैते पितरः स्मृताः॥

  • आदौ माता गुरोः पत्नी ब्राह्मणी राजपत्निका ।

धेनुर्धात्री तथा पृथ्वी सप्तैताः मातरः स्मृताः॥

  • आपदाम् कथितः पन्था इन्द्रियाणामसंयमः ।

तज्जय संपदाम् मार्गो येनेष्टम् तेन गम्यताम् ॥

  • समुद्रावरणा भूमिः प्राकारावरणं गृहं।

नरेन्द्रावरणो देशः चरित्रावरणा स्त्रियः॥

  • परोपकरणं येषां जागर्ति हृदये सतां।

नश्यन्ति विपदस्तेषां सम्पसह् स्युः पदे पदे ॥

  • नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः।

नास्ति रागसमं दु:खं नास्ति त्यागसमं सुखं॥

  • पादपानां भयं वातात् पद्मानाम् शिशिराद्भयं।

पर्वतानां भयं वज्रात् साधूनां दुर्जनाअद्भयं ॥

  • सुभिक्षं कृषके नित्यं नित्यं सुखमरोगिनः।

भार्या भर्तु: प्रिया यस्य तस्य नित्योत्सवं गृहं ॥

  • प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनं।

तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति॥

  • क्षमया दयया प्रेम्णा सूनृतेनार्जवेन च।

वशीकुर्याज्जगत्सर्वं विनयेन च सेवया ॥

  • अजरामरवत् प्राज्ञो विद्यामर्थम् च चिन्तयेत्।

गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥

  • अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकं।

सर्वस्य लोचनं यस्य नास्त्यंध एव सः ॥

  • मनस्यन्यत् वचस्यन्यत् कर्मण्यन्यत् दुरात्मनां ।

मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् ॥

  • प्रविचार्योत्तरं देयं सहसा न वदेत् क्वचित्।

शत्रोरपि गुणा ग्राह्याः दोषास्त्याज्या गुरोरपि॥

  • त्यज दुर्जनसंसर्गं भज साधुसमागमं।

कुरुपुण्यमहोरात्रं स्मर नित्यमनित्यताम् ॥

  • दृष्टिपूतं न्येसेत्पादं वस्त्रपूतं जलं पिबेत्।

सत्यपूतम् वदेद्वाचं मनःपूतं समाचरेत् ॥

  • सत्येन धार्यते पृथ्वी सत्येन तपते रविः।

सत्येन वायवो वान्ति सर्वं सत्ये प्रतिष्ठितम् ॥

  • कोऽतिभारः समर्थानां किं दूरे व्यवसायिनां।

को विदेशः सविद्यानां कः परः प्रियवादिनाम्

  • शोकस्थानसस्राणि भयस्थानशतानि च ।

दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥

  • दरिद्रता धीरतया विराजते कुरूपता शीलतया विराजते।

कुभोजनं उष्णतया विराजते कुवस्त्रता शुभ्रतया विरजते ॥

  • यथा चतुर्भिः कनकं परीक्ष्यते निकर्षणछेदनतापताडनैः ।

तथा चतुर्भिः पुरुषः परीक्ष्यते श्रुतेन शीलेन कुलेन कर्मणा॥

  • अनभ्यासे विषं विद्या अजीर्णे भोजनं विषं ।

विषं गॊष्ठी दरिद्रस्य भोजनान्ते जलं विषं ॥

  • मातृवत्परदारेषु परद्रव्येषु लोष्टवत्।

आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः॥

  • दानेन पाणिर्नतुकंकणेन स्नानेन शुद्धिर्नतु चन्दनेन।

मानेन तृप्तिर्नतुभोजनेन ज्ञानेन मुक्तिर्नतु मण्डनेन ॥

  • कः कालः कानि मित्राणि को देशः कौ व्ययागमौ।

कस्याहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहु: ॥

  • अत्यन्तकोपः कटुका च वाणी दरिद्रता च स्वजनेषु वैरं ।

नीचप्रसङ्ग: कुलहीनसेवा चिह्नानि देहे नरकस्थितानाम् ॥

  • धनधान्यप्रयोगेषु विद्यासंग्रहणेषु च ।

आहारे व्यवहारे च त्यक्तलज्ज सुखी भवेत् ॥

  • गुनैरुत्तमतामा याति नोच्चैरासनमास्थितः।

प्रासादशिखरस्थोऽपि काक: किं गरुडायते ?॥

  • प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।

तस्मात्तदेव वक्तव्यं वचने का दरिद्रता॥

  • पुस्तकेषु च या विद्या विद्या परहस्तेषु यद्धनं।

उत्पन्नेषु च कार्येषु न सा विद्या न तद्धनम्

  • सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने।

त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः॥

  • विप्रयोर्विप्रवह्न्योश्च दम्पत्योः स्वामिभृत्ययोः।

अन्तरेण न गन्तव्यं हलस्य वृषभस्य च ॥

बाह्यसंबन्धनानि[सम्पाद्यताम्]

w:sa
विकिपीडियायाम् एतत्सम्बद्धः लेखः -
"https://sa.wikiquote.org/w/index.php?title=चाणक्य&oldid=12259" इत्यस्माद् पुनः प्राप्तिः