जहि रक्षांसि सुक्रतो ॥

विकिसूक्तिः तः

जहि रक्षांसि सुक्रतो ॥ (ऋग्वेदः ६-१६-२९)[सम्पाद्यताम्]

हे सत्कर्मशील ! राक्षसीयगुणान् विनाशय ।

येभ्यः आत्मा रक्षयितव्यः ते एव राक्षसप्रवृत्तयः, शक्तयः, गुणाः । एते अस्माकम् अन्तः तिष्ठन्तः एव अस्मान् नाशयन्ति । दुराशा स्यात्, कोपः स्यात्, अतृप्तिः स्यात्, आकर्षणं स्यात्, दुरहङ्कारः स्यात्, असूया स्यात् । एतेषां दासाः यदि भवेम तर्हि अस्माकं विनाशः निश्चितः एव । परिश्रमपूर्वकम् एते निगृहीताः चेत् वरम् । एतेभ्यः मुक्तिः प्राप्तव्या चेत् सदा सत्कर्मेषु एव प्रवृत्तिः स्यात् । स्वार्थरहितानि, लोकहितचिन्तनैः युक्तानि कार्याणि एव सत्कर्माणि । अयम् एव अस्माकं सहजस्वभावः भवेत् ।
"https://sa.wikiquote.org/w/index.php?title=जहि_रक्षांसि_सुक्रतो_॥&oldid=1183" इत्यस्माद् प्रतिप्राप्तम्