जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् ॥

विकिसूक्तिः तः
Jump to navigation Jump to search

जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् ॥ (अथर्ववेदः ३-३०-२)[सम्पाद्यताम्]

पत्नी भर्तारं मधुराणि शान्तिदायकानि वचनानि वदन्तु ।

पत्नी यथा मधुरं शान्तिदायकं वचनं वदेत् तथैव पतिः अपि पत्नीं मधुराणि शान्तिदायकानि वचनानि वदेत् । नीतिनियमसम्बद्धानि वचनानि पुरुषमहिलयोः पतिपत्न्योः कृते समानतया अन्वेति । कुटुम्बे सामरस्यं यदि अपेक्षितं तर्हि उभाभ्यामपि स्वीयानि कर्तव्यानि समीचीनतया निर्वहणीयानि । केन प्रथमं कृतं, कीयता प्रमाणेन कृतमित्यादीनि चिन्तनानि न भवेयुः । इदमेव प्रेम, त्यागः । मातापुत्रयोः केषाञ्चन मासानां सामीप्यं भवति । दीर्घकालं यावत् विद्यमानः अत्यन्तं निकटसम्बन्धः भवति पतिपत्न्योः । मधुरं शान्तियुतञ्च सम्भाषणम्, आत्मीयः व्यवहारश्च शारीरकातीतं सामीप्यम् आनयति । अस्मिन् सामीप्ये हितं, निरातङ्कः, सामञ्जस्यं, शान्तिः, समाधानं, शक्तिः, प्रेरणा च प्राप्यन्ते यानि भवन्ति अनन्यानि अमूल्यानि च । सम्भाव्यमानान् भेदान् गौणीकृत्य इदं सामीप्यं यदि साधयेम तर्हि शान्ति-समाधान-सुरक्षा-स्वास्थ्यादयः अस्मदीयाः भविष्यन्ति ।