जैनदर्शनसूक्तयः (अहिंसा)

विकिसूक्तिः तः

<poem> १. अहिंसादिगुणाढ्यस्य किमु धर्मस्य दुष्करम् ? - पद्मपुराणम् ८०.१३८)

२. अहिंसा प्रवरमूलं धर्मस्य परिकीर्तितम् । - पद्मपुराणम् २६.१००

३. अहिंसाशुद्धिरेषा स्याद्

ये निः सङ्गा दयालवः । - आदिपुराणम् ३९.३०

४. अहिंसैव हि संसारमरावमृतसारणिः । - योगशास्त्रम् २.५०

५. अहिंसैव परो धर्मः स एको विश्वरक्षकः । - श्रावकधर्मप्रदीपः १.३.२

६. पुराणं धर्मशास्त्रं च

तत्स्याद् वधनिषेधि यत् । - आदिपुराणम् ३९.२३

७. प्राणिनां रक्षणे धर्मः । - पद्मपुराणम् १२.१३२

८. मातेव सर्वभूतानामहिंसा हितकारिणी । - योगशास्त्रम् २.५१

९. स्थूलवधाद्विरमणमहिंसा । - रत्नकरण्डश्रावकाचारः ३.५३