जैनदर्शनसूक्तयः (दुःखम्)
<Poem> १. अधर्मात् दुःखमित्यविगानतः । - आदिपुराणम् १०.१४
२. आतपक्लेशनाशाय पावकस्य प्रवेशवत् । - जीवन्धरचम्पूः १.५३
३. उद्वेगकरणं नात्र कारणं दुःखमोचने । - पद्मपुराणम् ८३.१३२
४. दीपनाशे तमोराशिः, किमाह्वानमपेक्षते । - क्षत्रचूडामणिः पृ० ३०
५. दुःखचिन्ता हि तत्क्षणे । - क्षत्रचूडामणिः १.३२ पृ १६
६. दुःखं तावद्भवति निकषो यत्र नुः स्यात् परीक्षा । - वर्धमानचम्पूः ६.२४
७. दुःखं संसारसंज्ञकम् । - पद्मपुराणम् २.१८१
८. ध्यातेऽपि हि पुरा दुःखे भृशं दुःखायते जनः । - क्षत्रचूडामणिः ८.१३
९. न हि मातुः सजीवेन सोढव्या स्याद् दुरासिका । - क्षत्रचूडामणिः ८.६१
१०. प्राप्यते सुमहद् दुःखं जन्तुभिर्भवसागरे । - पद्मपुराणम् ५.१२१
११. मानभङ्गाद् दुःखान्नापरं शर्महानिदम् । - पांडवपुराणम् १७.१४४
१२. यन्नाम दृश्यते लोके दुःखं तत्पापसम्भवम् । - पद्मपुराणम् १७.१८७
१३. विस्मृतं हि चिरं भुक्तं दुःखं स्यात्सुखलाभतः । - क्षत्रचूडामणिः ८.११