जैनदर्शनसूक्तयः (बुधः)

विकिसूक्तिः तः

<Poem> १. उपायैर्हि प्रवर्तन्ते स्वार्थस्य कृतबुद्धयः । - पद्मपुराणम् ११७.९ २. को वा दुरापां समवाप्यं संपदं विचक्षणः क्षेमविधौ विमुह्यति । - ध० श० ७.५ ३. घने स्वदेहेऽप्यात्मानं न घनं मन्यते बुधः । - समाधितन्त्रम् ६३ ४. जीर्णे स्वदेहेऽप्यात्मानं न जीर्णं मन्यते बुधः । - स० श० ६४ ५. धर्मैकपरतां धत्ते बुधोऽनर्थजिहासया । - आदिपुराणम् १०.१४ ६. नामृष्टभाषिणी जिह्वा चेष्टा नानिष्टकारिणी । - आदिपुराणम् १८.१२३ ७. पीयूषे हि करस्थेऽहो के भजन्ते विषं बुधाः । - पांडवपुराणम् २५.१२५ ८. प्रतिहन्तुं न हि प्राज्ञैः प्रारब्धं पार्यते परैः । - क्षत्रचूडामणिः ६.३ ९. प्रायः श्रेयोऽर्थिनो बुधाः । - दयोदयचम्पूः ३१ १०. बुधाः सुनयनां न हि विश्वसन्ति । - जीवन्धरचम्पूः ७.३७ ११. मुधा- बुधा न कुर्वन्ति किल्विषं कामवाञ्छया । - पांडवपुराणम् ९.४३