जैनदर्शनसूक्तयः (मानवजीवनम्)

विकिसूक्तिः तः

<Poem> १. तस्मात्क्लेशचयाल्लब्ध्वा मानुषं जन्म दुर्लभम् ,प्रमादः स्वहिते कर्तुं न युक्त इह धीमता । - जीवन्धरचम्पूः ११.२९ २. भवानां किल सर्वेषां दुर्लभो मानुषो भवः । - पद्मपुराणम् ११०.४९ ३. मानुष्यकमिदं कृच्छात् प्राप्यते प्राणधारिणा । - पद्मपुराणम् ७५.१०९ ४. मोक्षसाधनतः सारं मानुष्यं दुर्लभं च तत् । - हरिवंशुपुराणम् १८.९४