जैनदर्शनसूक्तयः (लोभः)

विकिसूक्तिः तः

<Poem> १. आकरः सर्वदोषाणां गुण- ग्रासनराक्षसः । कन्दोव्यसनवल्लीनां लोभः सर्वार्थबाधकः ॥ - यो. शा. ४.१८ २. कृतो लुब्धस्य सत्यता । - दयोदयचम्पूः ४ पृ० ३ ३. तावन्मानं वहति न वशं याति लोभस्य यावत् । - धवला ६.२७ ४. मूले लघीयांस्तल्लोभः सराव इव वर्धते । - योगशास्त्रम् ४.२१ ५. लोभात् किं न प्रजायते । - पांडवपुराणम् १२.१३९