जैनदर्शनसूक्तयः (सुखम्)

विकिसूक्तिः तः

<Poem> १.अनुगतकृत्यैः प्राप्यतेशं मनुष्यैः । - पद्मपुराणम् ४३.१२३ २.अमूलस्य कुतः सुखम् । - क्षत्रचूडामणिः १.११ ३.असिधारामधुरस्वादसमं विषयजं सुखम् । - पद्मपुराणम् १०५.१८० ४.अस्वस्थस्य कुतः सुखम् । - उत्तरपुराणम् ५१.६७ ५.एकमेव हि कर्तव्यं सुकृतं सुखकारणम् । - पद्मपुराणम् ३९.१४३ ६.किञ्चिदाश्वासजननं तथा विषयजं सुखम् । - आदिपुराणम् ११.१७५ ७.कुतः स्वर्गादृते सुखम् । - आदिपुराणम् ९.१८८ ८.गुणाहि यत्नेन कृताभिरक्षता भवन्ति पुंसां परिपाकपेशलाः । - पार्श्वनाथचरितम् ४.४७ ९.तत्कुतस्त्यं सरागाणं द्वन्द्वोपहचेतसाम् । - आदिपुराणम् ११.१६४ १०.तादात्विक सुखप्रीतिः संसृतौ हि विशेषतः । - क्षत्रचूडामणि ७.३१ ११.न तत्सुखं परद्रव्यसंबन्धादुपजायते । - आदिपुराणम् २१.२०९ १२.ननु सिंहो गुहां प्राप्य महाद्रेर्जायते सुखी । - पद्मपुराणम् ६६.२६ १३.निर्द्वन्द्ववृत्तितामाप्ताः शमुशन्तीह देहिनाम् । - आदिपुराणम् ११.१६४ १४.निःसारे खलु संसारे सुखलेशोऽपि दुर्लभः । - आदिपुराणम् १७.१७ १५.पराधीनं शर्म क्षीय विषयकांक्षौधमलिनं,भवे भीतिस्थानं तदपि कुमतिस्तत्र रमते । - अध्यात्मसारः ४.२६ १६.पुण्यात् सुखं न सुखमस्ति विनेह पुण्यात् । - आदिपुराणम् १६.२७१ १७.प्राणीप्सित सुशर्माणि जायन्ते धर्मतो ध्रुवम् । - पाण्डवपुराणम् १७.१५७ १८.मर्त्यलोके सुखं तद् यच्चित्तसन्तोषलक्षणम् । - हरिवंशुपुराणम् ११.९६ १९.सुखं नापरमुत्कृष्टं विद्यते सिद्धसौख्यतः । - पद्मपुराणम् १०५.१९० २०.सुखं वैषयिकं कटु । - वीरवर्धमानचरितम् ५.१०१