तस्मा इन्द्राय गायत ॥

विकिसूक्तिः तः

तस्मा इन्द्राय गायत ॥ (ऋग्वेदः १-५-४)[सम्पाद्यताम्]

तस्मै भगवते गायतु ।

पञ्चभूतैः जातमिदं ब्रह्माण्डं तस्य भगवतः सृष्टिः । ज्ञानं, भूमिः, वायुः, जलं, सस्यं, सूर्यः, चन्द्रः इत्यादयः जीविनाम् अस्माकं कृते प्रदत्ताः व्यवस्थाः, उपायनानि, साधनानि, कार्यक्षेत्रं च । एतेषां सदुपयोगेन प्रत्येकं जीविः अपि आत्मबलं वर्धयन् आनन्दम् अनुभोक्तुम् आवश्यकानि शक्तिसामर्थ्यादीनि सम्पादयितुं शक्यानि । सकलजीवराशीनां लक्ष्यम् एतदेव । मानवजीवने अस्य अवसरः आधिक्येन लभ्यते । भगवतः दया, करुणा, औदर्यादीनि यदा अवलोकयाम तदा हृदयं कृतज्ञतापूर्णं भवति । गायनेन कृतज्ञताभावः अस्माकम् अन्तरङ्गे मुद्रितः भवेत्, भगवतः उपायनानां मूल्यं न विस्मरेम, तानि संरक्षेम च । अद्यत्वे प्रत्यक्षरूपेण, परोक्षरूपेण च अस्माभिः क्रियमाणं मालिन्यं तदा न करिष्यामः । अन्येषां सम्पत्तिं बलात् प्राप्तुं प्रयत्नं न कुर्मः । भगवन्तम् अनुसरन्तः सम्पत्तिं सर्वैः संविभज्य अनुभवामः । इयं रीतिः अस्माकं कृते जगतः कृते च अपेक्षितः मनोभावः । एतैः भावैः हृदयं पूर्णं यदा भवति तदा गानस्य अभिव्यक्तिः भवति । सामगानस्य अभिव्यक्तिः भवेत् ।
"https://sa.wikiquote.org/w/index.php?title=तस्मा_इन्द्राय_गायत_॥&oldid=1335" इत्यस्माद् प्रतिप्राप्तम्