त्यजेदेकं कुलस्यार्थे...

विकिसूक्तिः तः

सुभाषितम्

त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥

tyajedekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet ।
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet ॥

पदच्छेदः

त्यजेत्, एकं, कुलस्यार्थे, ग्रामस्यार्थे, कुलं, त्यजेत्, ग्रामं, जनपदस्यार्थे, आत्मार्थे, पृथिवीं, त्यजेत् ।


तात्पर्यम्

कुलस्य उद्धाराय यदि अवश्यं तर्हि जनः त्यक्तव्यः, ग्रामस्य निमित्तं कुलस्य त्यागः करणीयः, जनपदस्य निमित्तं कदाचित् ग्रामस्य त्यक्तव्यः, परमात्मनः साक्षात्कारार्थं जगत् एव त्यक्तव्यं भवति ।


आङ्ग्लार्थः

Forsake a member to save a family; leave a family to save a village; reject a village to save a country, and give up the whole earth for the sake of the self.