त्वं विश्वस्य धनदा असि ॥

विकिसूक्तिः तः
Jump to navigation Jump to search

त्वं विश्वस्य धनदा असि ॥ (ऋग्वेदः ७-३२-१७)[सम्पाद्यताम्]

त्वं जगतः सम्पद्धाता असि ।

हे विश्वचैतन्यशक्ते ! अस्य जगतः समग्रा सम्पत्तिः भवतः एव । जननावसरे इयं सम्पत्तिः मया न आनीता, गमनावसरे नयनम् असाध्यमेव । मम योग्यतायाः कर्मणश्च अनुसारम् इयं सम्पत्तिः भवतः नियमानुसारं मह्यं दत्तमस्ति । नाशनाय न, अपव्ययाय अपि न । संरक्ष्य अग्रिमसन्तानाय दत्त्वा गमनाय ! आम् । अहं मम पुत्रान्, पौत्रान् च विशेषतः प्रीणामि । तेषां कृते इयं सम्पत्तिः रक्षणीया एव । पूर्वजाः रक्षितवन्तः इत्यनेन एव इयं सम्पत्तिः मया प्राप्ता इत्येतत् सत्यम् । अहं भवतः सम्पत्तेः विश्वस्तमात्रम् ! इदं कार्यं कृतम् इत्यतः भवतः सम्पत्तेः वर्धमानः भागः मम वेतनम् । ततः मम सरलम् असङ्ग्रहयुतं जीवनम् । इदं सत्यम् अनवगच्छता मया इयं सम्पत्तिः मम एव इति अधिकारः प्रदर्श्यते । मम इच्छानुसारम् आडम्बरप्रदर्शनाय लालसया अस्याः सम्पत्तेः दुरुपयोगं करोमि । भौतिकसम्पत्तेः कृते एव यस्य कस्यचित् जनस्य आश्रयं प्राप्नोमि । जगति विद्यमानेभ्यः सर्वेभ्यः भौतिकाध्यात्मिकसम्पत्तेः दाता भवान् एव इत्ययम् अंशः मया विस्मृतः आसीत् । इतः परं न विस्मरामि ।