सामग्री पर जाएँ

दाने तपसि शौर्ये...

विकिसूक्तिः तः


सुभाषितम्

दाने तपसि शौर्ये वा विज्ञाने विनये नये ।
विस्मयो नहि कर्तव्यो बहुरत्ना वसुन्धरा ॥

चाणक्यनीतिदर्पणः १४.८

dāne tapasi śaurye vā vijñāne vinaye naye ।
vismayo nahi kartavyo bahuratnā vasundharā ॥

पदच्छेदः

दाने, तपसि, शौर्ये, वा, विज्ञाने, विनये, नये, विस्मयः, नहि, कर्तव्यः, बहुरत्ना, वसुन्धरा ॥


तात्पर्यम्

दाने, तपसि, शौर्ये, वा, विज्ञाने, विनये, नये वा गर्वः न कर्तव्यः यतः अस्यां भूमौ बहवः जनाः एतैः गुणैः उपेताः सन्ति ।


आङ्ग्लार्थः

We should not feel pride in our charity, self control, valour, spiritual knowledge, modesty and morality because the world is rich in gems and jewels (people) who possess these qualities.

"https://sa.wikiquote.org/w/index.php?title=दाने_तपसि_शौर्ये...&oldid=18118" इत्यस्माद् प्रतिप्राप्तम्