देवस्य पश्य काव्यं न ममार न जीर्यति ॥

विकिसूक्तिः तः
Jump to navigation Jump to search

देवस्य पश्य काव्यं न ममार न जीर्यति ॥ (अथर्ववेदः १०-८-३२)[सम्पाद्यताम्]

भगवतः सृष्टिं पश्य, न क्षीयते, न म्रीयते वा ।

इयं समग्रा सृष्टिः भगवतः एव । उपशतवर्षाणि वयं जगत् पश्येम, अवगच्छेम । किन्तु अस्याः सृष्टेः कालः तु सहस्राधिककोटिवर्षाणि । अतः अयं सृष्टिः, सृष्टेः नियमाः अजराः अमराश्च । अग्रे प्रलयः भवेत् चेदपि अवशिष्टानि मूलवस्तूनि उपयुज्य भगवान् नूतनां सृष्टिं करिष्यति । 'सूर्या चन्द्रमसौ धाता यथापूर्वम् अकल्पयत्' । सर्वया अपि दृष्ट्या भगवान्, तदीया सृष्टिः, सृष्टिनियमाः सर्वेपि चिरन्तनः । इदं यदि अवगच्छेम तर्हि अस्माकं जीवनस्य संरचनावसरे, अपेक्षितस्य मार्गदर्शनस्य प्राप्तेः समये च भगवतः सृष्टेः नियमान् एव आश्रयामः । ते एव दृढाः, स्वीकरणयोग्याः च । एतेन एव जीवात्मा विविधेषु जन्मसु योग्यं मार्गम् आश्रित्य अग्रे सरन् जन्ममरणचक्रात् मुक्तः भवितुम् अर्हति । सा मुक्तिस्थितिः अपि शाश्वता अमरा च ।