धियो यो नः प्रचोदयात् ॥

विकिसूक्तिः तः
Jump to navigation Jump to search

धियो यो नः प्रचोदयात् ॥ (यजुर्वेदः ३-३५)[सम्पाद्यताम्]

अस्माकं प्रज्ञाकर्माणि तस्मात् विश्वचेतनात् प्रेरितानि भवन्तु ।

अद्यत्वे अस्माकं मार्गदर्शकस्थाने के विराजन्ते ? केषां वचनव्यवहारादयः अस्मान् प्रेरयन्ति ? चारित्र्यहीनाः अभिनेतारः, नीतिहीनाः नेतारः । केनचित् मार्गेण कथञ्चित् अचिरात् सम्पत्तिं प्रसिद्धिञ्च सम्पादितवन्तः एते । एतानि बाह्यानि । अन्तः विद्यन्ते - काम-क्रोध-लोभ-मोह-मद-मात्सर्याः । एतैः प्रभावैः युक्तानि अस्माकं प्रज्ञाकर्माणि किं शान्ति-आरोग्यादीनि आनयेयुः ?!!
दयामयः विश्वचेतनः अस्माकं निमित्तं न केवलम् अस्य जगतः रचनाम् अकरोत्, अपि च अत्र कथं जीवनीयम् इत्येतस्मिन् विषये मार्गदर्शनमपि कृतवान् अस्ति । तेन दर्शितेन सन्मार्गेण यदि चलेम तर्हि पापचिन्तनानि एव समीपं न आगच्छेयुः । एवं चेत् दुष्टवचनानां दुष्टकार्याणाञ्च प्रसक्तिः कुत्र ? सत्प्रेरणेभ्यः स्वागतं क्रियेत चेदेव आत्मशुद्धिः । शुद्धात्मनः एव शान्तिः, आरोग्यं, जनन-मरणाभ्यां
मुक्तिश्च ।