न तस्य प्रतिमा अस्ति ॥

विकिसूक्तिः तः

न तस्य प्रतिमा अस्ति ॥ (यजु ३२-३)[सम्पाद्यताम्]

तस्य प्रतिमा नास्ति

'प्रति' - समानम् 'मा' मानम् एव प्रतिमा । भगवतः प्रतिमा न विद्यते इति वेदः घोषयति । कारणं सरलं विद्यते । भगवतः लक्षण-गुण-स्वभावादयः अनन्ताः । जगति तादृशम् अस्तित्वं न अन्यस्य कस्यापि । प्रतिमाः येन केनाऽपि निर्मीयेत चेदपि ते जडस्वरूपाः एव । अचेतनं किञ्चित् कथं परमचेतनत्वं प्राप्नुयात् ? प्राणप्रतिष्ठायाः द्वारा परमात्मानम् आनयामः इत्येतत् दार्ष्ट्यद्योतकम् । जीवात्मसु केचन देवाः अवताररूपाः इति निर्देष्टुं न शक्यते यतः ते सचेतनाः चेदपि न सर्वज्ञाः । महात्मानः सर्वे अपि कदाचित् जाताः, अग्रे मरिष्यन्ति, मृताः वा । किन्तु सः भगवान् अस्ति सर्वज्ञः, अमरः, निराकारश्च ।
"https://sa.wikiquote.org/w/index.php?title=न_तस्य_प्रतिमा_अस्ति_॥&oldid=1524" इत्यस्माद् प्रतिप्राप्तम्