न पापत्वाय रासीय ॥

विकिसूक्तिः तः

न पापत्वाय रासीय ॥ (ऋग्वेदः ७-३२-१८)[सम्पाद्यताम्]

मया कृतानि दानानि पापाय उपयुक्तानि न भवेयुः ।

दानगुणः उत्तमः एव । किन्तु केचन नियमाः भवन्ति । पूर्वं प्राप्तस्य उपकारस्य प्रत्युपकाररूपेण, अग्रे प्राप्यमाणं लाभं मनसि निधाय वा यदि दीयते तर्ही तत् दानमिति न उच्यते । पूर्वापरसम्बन्धं विना यत् दीयेत तत् भवेत् दानम् । कस्मै दीयते इत्येतदपि बहु प्रमुखम् । दानमात्रम् अस्माकं कार्यं, तस्य उपयोगः कथं क्रियते इत्येतत् अस्माकं सम्बद्धं न इति व्यवहारः उत्तरदायित्वात् पलायनं भवेत् । कोपि कष्टपरिस्थितौ सन्ति इति दत्तं साहायधनं सः द्यूताय, सुरापानाय, दुरभ्यासाय वा यदि उपयुज्येत तर्हि तस्य जनस्य आरोग्यनाशने अस्माकं सम्मतिः, प्रोत्साहनञ्च दत्तं भवेत् खलु ? समाजे मौढ्यस्य, अर्थहीनसम्प्रदायस्य, द्वेषासूयानां वर्धनं याः संस्थाः कुर्युः ताभ्यः दानमपि अहितकरपरिणामं जनयन्ति । एतानि अपात्रदानानि । अस्माकं दानं सत्कार्याय यदा उपयुज्येत तदा तत् सत्पात्रदानं भवति । इयं जागरा प्रत्येकस्मिन् अपि जने भवेदेव ।
"https://sa.wikiquote.org/w/index.php?title=न_पापत्वाय_रासीय_॥&oldid=1547" इत्यस्माद् प्रतिप्राप्तम्