न रिष्यते त्वावतः सखा ॥

विकिसूक्तिः तः
Jump to navigation Jump to search

न रिष्यते त्वावतः सखा ॥ (ऋग्वेदः १-९१-८)[सम्पाद्यताम्]

भवतः स्नेहपात्राः केऽपि न विनश्यन्ति ।

भवतः = भगवतः । एकाकी भवति चेत् यावान् आतङ्कः स्यात् सः महता प्रमाणेन न्यूनं भवति यदि भवेत् अन्यस्य सहवासः । यदि सः अन्यः भगवान् स्यात् ! किन्तु भगवतः स्नेहस्तु भगवद्भक्तमात्रेण लभ्यते । भक्तिः नाम कायस्योपरि ध्रियमाणाः सङ्केतादयः, श्मश्रुजटादयाः, तालभजनादयो वा न । दया-नायकत्व-ज्ञान-न्यायादीन् भगवतः स्वभावान् आत्मसात् यदि कुर्याम तर्हि वयं भवेम भक्ताः । अन्यान् आत्मभावेन दर्शनमेव दया । इन्द्रियनिग्रहः एव नायकत्वम् । सत्यान्वेषणद्वारा अवगमनवर्धनं ज्ञानम् । स्वस्य योग्यतानुसारं मानवीयः व्यवहारः न्यायम् । एतादृशाः भक्ताः अन्तरङ्गे दृढाः भवन्ति, अचलाः भवन्ति । धैर्यवन्तः भवन्ति । इदमेव अमृतत्त्वम् । तेषां विनाशः कदापि न भविष्यति । भौतिकजगतः न्यूनाधिक्यं, लाभालाभाः एतान् न स्पृशन्ति ।