परोपकारप्रशंसा

विकिसूक्तिः तः
Jump to navigation Jump to search

परोपकारप्रशंसा[सम्पाद्यताम्]

श्लोकार्धेन प्रवक्ष्यामि
यदुक्तं ग्रन्थकोटिषु ।
परोपकारः पुण्याय
पापाय परपीडनम् ॥


रविश्चन्द्रो धना वृक्षाः
नदी गावश्च सज्जनाः ।
एते परोपकाराय
भुवि दैवेन निर्मिताः ॥


परोपकाराय फलन्ति वृक्षाः
परोपकाराय वहन्ति नद्यः ।
परोपकाराय दुहन्ति गावः
परोपकारार्थमिदं शरीरम् ॥


पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः ॥


आत्मार्थं जीवलोकेऽस्मिन्को न जीवति मानवः ।
परं परोपकारार्थं यो जीवति स जीवति ॥


भवन्ति नम्रस्तरवः फलोद्रमैः
नवाम्बुभिर्दूरविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः
स्वभाव एवैष परोपकारिणाम् ॥


जीवितान्मरणं श्रेष्ठं परोपकृतिवर्जितात् ।
मरणं जीवितं मन्ये यत्परोपकृतिक्षमम् ॥


तृणं चाहं वरं मन्ये नरादनुपकारिणः ।
घासो भूत्वा पशून्पाति भीरून् पाति रणाङ्गणे ॥


परोपकारशून्यस्य धिक् मनुष्यस्य जीवितम् ।
जीवन्तु पशवो येषां चर्माप्युपकरिष्यति ॥


रत्नाकरः किं कुरुते स्वरत्नैः
विन्ध्याचलः किं करिभिः करोति ।
श्रीखण्डखण्डै र्मलयाचलः किं
परोपकाराय सतां विभूतयः ॥

"https://sa.wikiquote.org/w/index.php?title=परोपकारप्रशंसा&oldid=14080" इत्यस्माद् प्रतिप्राप्तम्