पुनन्तु मा देवजना ॥

विकिसूक्तिः तः

पुनन्तु मा देवजना ॥ (अथर्ववेदः ६-१९-१)[सम्पाद्यताम्]

ज्ञानिनः सज्जनाः मां पूतं कुर्वन्तु ।

शरीरस्य मालिन्यं जलेन निर्गच्छति, ततः शरीरं शुद्धं भवति । उपवासादिभिः शरीरस्य अन्तर्भागः शुद्धः पवित्रश्च भविष्यति । काम-क्रोध-लोभ-मोह-मद-मात्सर्यादिभिः बद्धं सत् मनः पीडितं यदि न भविष्यति तर्हि तत् भवति पवित्रम् । स्वस्मिन् विद्यमानान् दुष्टसंस्कारान् नाशयित्वा शिष्टसंस्कारान् यदि स्वागतीकरोति तर्हि आत्मा पवित्रः भविष्यति । एतस्य स्तरत्रयस्य शुद्धीकरणकार्यमपि अत्यन्तं सङ्कीर्णम् । अधिका सहना, परिश्रमः, कालः, अवगमनञ्च अपेक्षते । अस्यां दिशि ये अग्रेसराः सन्ति ते पृष्ठतः विद्यमानानां साहाय्यं दातुम् अर्हन्ति । ते साहाय्यं कुर्युः, कुर्वन्ति च । ते एव ज्ञानिनः सज्जनाः । अधिकस्य ज्ञानस्य प्राप्तेः निमित्तं सदा मुक्तहृदयाः भवन्ति । आत्मनः पवित्रतायाः निमित्तं सर्वदा प्रयतमानाः भवन्ति । 'अस्मान् पवित्रतायाः दिशि नीयताम्' इति यदा प्रार्थ्यते तदा 'आगतोऽहम्' इति कथयन्ति ते । प्रत्युपकाररूपेण न किमपि प्रतीक्षन्ते । वचनानुसारं प्रवर्तन्ते ते । एतेषां जीवनम् उद्घाटितं पुस्तकमिव भवति । एतादृशानां मार्गदर्शनं सहवासश्च प्राप्यताम् इति प्रार्थयामहे ।
"https://sa.wikiquote.org/w/index.php?title=पुनन्तु_मा_देवजना_॥&oldid=1679" इत्यस्माद् प्रतिप्राप्तम्