पृथिवीं मा हिंसीः ॥

विकिसूक्तिः तः

पृथिवीं मा हिंसीः ॥ (यजुर्वेदः १३-१८)[सम्पाद्यताम्]

<poem> भूमेः हिंसा न क्रियताम् ।

भूमिः जडरूपा । अस्याः विषये हिंसाहिंसयोः आचरणं नाम किम् ? भूमिं

मलिनां न करोतु इत्यर्थः । एतेन भूमेः अपेक्षया भूमौ वसतां जीवराशिनाम् एव लाभः । अधिकफलोदयस्य प्राप्त्यर्थं वाणिज्यलाभाय अद्यत्वे अस्माभिः भूमौ न योजितः विषः एव न विद्येत ! किञ्चुलकाः अन्ये बहवः सूक्ष्मजीविनश्च स्वाभाविकतया एव भूमौ फलयुक्ततां वर्धयन्ति । किन्तु रसगोभराणां कृतकगोभराणां स्थापनाधिक्येन अद्यत्वे अस्माभिः भूमौ किञ्चुलकाः अन्वेष्टव्याः सन्ति ! कुतृणनाशकाः, कृमिनाशकाः, कीटनाशकाश्च सन्ति अत्यधिकविषयुक्ताः ! एते भूमिं प्रविश्य तद्द्वारा वर्धमानेषु धान्येषु प्रविश्य, ततः अस्माकम् उदरमेव प्रविशन्तः सन्ति चेदपि अस्माभिः जागरा न प्राप्ता !! वृष्टिकारणतः एते विषाः कूप-कासार-नदीः प्रविष्टाः इत्यतः जलमपि मलिनं जायमानमस्ति । इदं मलिनजलं भाष्पीभूय वायुमालिन्यम् उत्पादयति, वृष्टेः आम्लता च वर्धमाना अस्ति । आम्लवर्षा अद्यत्वे जागतिकसमस्या जाता अस्ति ।

भूमेः पावित्र्यं रक्षेम । भूमौ जीवतः जीविनः प्रीत्या पालयेम ।
भूमेः सम्पत्तेः सदुपयोगं कुर्याम ।
"https://sa.wikiquote.org/w/index.php?title=पृथिवीं_मा_हिंसीः_॥&oldid=12473" इत्यस्माद् प्रतिप्राप्तम्