प्र प्रदातारं तारिष ॥
दिखावट
प्र प्रदातारं तारिष ॥ (यजुर्वेदः ११-८३)
[सम्पाद्यताम्](अन्न)दातारं सुष्ठु रक्ष्यताम् ।
- अस्य मन्त्रस्य अवशिष्टे भागे अन्नस्य विचारः प्रस्तुतः इत्यतः अत्र 'अन्नम्' इति योजितमस्ति । कृषकः एव अन्नदाता । भूमिपुत्रः इति निर्देशने वस्तुतः यः अर्हः सः एव कृषकः । परिश्रमपूर्वकं सः यदि अन्नस्य उत्पादनं न कुर्यात् तर्हि सर्वे अपि अहारेण विना परमसङ्कष्टं अनुभवेयुः । कृषिं विना अन्येषु जीवनक्रमेषु विद्यमानाः सर्वेपि परोपजीविनः एव ! सर्वे अधमर्णाः एव ! कृषकस्य श्रेयोभिलाषः, तेषां हिताय व्यवसायः कृषकेतरजनानां सर्वेषाम् आद्यं कर्तव्यं भवति । भूमेः परमगभीरम् आन्तर्यं विदार्य जलं यः उद्धरेत्, अधिकाय फलोदयाय भूमये विषयुक्तं रासायनिकं गोभरं यः योजयेत्, लाभः स्वस्य मात्रं भवेत् इत्यनेन अन्येभ्यः भागदातृभ्यः प्राणि-पक्षि-कृमि-कीटेभ्यः विषं यः भोजयेत्, वाणिज्यदृष्टिमान् सन् वैविध्यमयं कृषिं विस्मृत्य यः एकस्यैव धान्यस्य कृषिं कुर्यात्, दुरभ्यास-दुर्व्यवहार-भोगेच्छाभिः युक्तः सन् यः सर्वकार-यन्त्रागार-मध्यवर्ती-नगरवासिनः अवलम्बितवान् स्यत् - सः किं भवेत् योग्यः कृषकः ? अस्य प्रश्नस्य समीचीने परिहारे सर्वेषां हितं विद्यते ।