बकुलकलिकाललामनि...

विकिसूक्तिः तः


चित्रकाव्यम्

बकुलकलिकाललामनि कलकण्ठीकलकलाकुले काले ।
कलया कलावतोऽपि हि कलयति कलितास्त्रतां मदनः ।


वैशिष्ट्यम्

क, ल इत्येताभ्यां वर्णाभ्यां रचिते अस्मिन् श्लोके कश्चन विशिष्टः आसक्तिकरः शब्दप्रभावः अनुभूयते ।


अर्थः

बकुलसस्यं नूतनैः मुकुलैः यदा शोभते, कोकिलाः ललनाश्च स्वीयसुमधुरेण कण्ठेन मनोहरस्वराणि वायुमण्डले यदा पूरयन्ति तदा कामदेवः मदनः शशेः कलाः अपि स्वीयसुन्दरास्त्रत्वेन उपयुज्यते ।



"https://sa.wikiquote.org/w/index.php?title=बकुलकलिकाललामनि...&oldid=14800" इत्यस्माद् प्रतिप्राप्तम्