मन्युं मयि धेहि ॥
दिखावट
मन्युं मयि धेहि ॥ (यजुर्वेदः १९-९)
[सम्पाद्यताम्]कोपं मयि स्थापय ।
- किमेतत् विचित्रा प्रार्थना ! क्रोधादयः त्यक्तव्याः इति सर्वत्र श्रूयते किन्तु अत्र कोपं मयि स्थापय इत्येतत् वचनं विचित्रं खलु ? अत्र कश्चन सूक्ष्मांशः विद्यते । अत्र 'मन्यु' इत्येतत् पदं कोपं सूचयति । 'मन्यु' इत्येतस्य शब्दस्य, अस्माभिः उपयुज्यमानस्य 'कोपः' 'क्रोधः' इत्येतस्य शब्दस्य च अजगजान्तरं विद्यते । 'मन्यु'शब्दस्य धातुः वर्तते 'मन ज्ञाने' इति । अस्मिन् मन्युशब्दे ज्ञानं विद्यते, जागरणं विद्यते । मन्यु इत्यस्मिन् भावे स्वार्थं न विद्यते । अन्याय्यस्य, अधर्मस्य च विरुद्धं मन्युः भवति । कोपक्रोधादिषु भावेषु अस्माभिः किं उच्यमानमस्ति, किं क्रियमाणमस्ति इति प्रज्ञा न भवति । अस्माकम् इच्छायाः, कार्यस्य, सम्बन्धस्य अवरोधं यत् जनयेत् तद्विषये कोपः भवति । मन्यौ रुधिरनिपीडः अधिकः न भवति । मन्योः कारणतः आत्मबलं वर्धते, किन्तु कोपस्य कारणतः आत्मबलं विनश्यति । मन्योः कारणतः जगद्धिताय किञ्चित् उत्तमं कार्यं कृतमिति तृप्तिः प्राप्यते, किन्तु कोपस्य परिणामतः बुद्धिभ्रमणं, विनाशश्च भविष्यति । अतः अस्याः सूक्तेः तात्पर्यम् एवं विद्यते - ज्ञानयुक्तं सात्त्विकं मन्युं मयि स्थापयतु इति ।